संस्कृतम् भारतस्य विश्वस्य च पुरातनतमा भाषा। संस्कृतं केवलं भाषैव न, अपितु भारतीय-चिन्तनस्य माध्यमम्। संस्कृत समेषामपि भारतीयानां गौरवं वैभवज्चेत्यत्र नास्ति सन्देहावसर:। भारतीय-संस्कृतेराधारभूतं संस्कृत साम्प्रतमपि सर्वत्र चकास्ति। दौर्भाग्यात् संस्कृतभाषायाः महत्त्वं गौरवञ्च विजानन्तोऽपि वयं भारतीया: संस्कृतम्प्रति समुत्सुकाः न भवामः। सम्यक् परिष्कृतं शुद्धमर्थाद् दोषरहितं व्याकरणेन संस्कारितं वा यत्तदेव संस्कृतम्। एवञ्च सम्-उपसर्गपूर्वकात् कृधातोर्निष्पन्नोSयं शब्द संस्कृतभाषेति नाम्रा सम्बोध्यते। सैव देवभाषा गीर्वाणवाणी, देववाणी, अमरवाणी, गीर्वागित्यादिभिर्नामभिः कथ्यते। इयमेव भाषा सर्वासां भारतीयभाषाणां जननी, भारतीयसंस्कृतेः प्राणस्वरूपा, भारतीयधर्मदर्शनादिकानां प्रसारिका, सर्वास्वपि विश्वभाषासु प्राचीनतमा सर्वमान्या च मन्यते। इयमतीव वैज्ञानिकी भाषा,अस्या पाणिनिमुनिप्रणीतं व्याकरणमतीव वैज्ञानिकं यस्य सहाय्येन अद्यापि वयं तां पुरातनग्रंथान अवबोधुं शक्नुम: । अस्माकं समस्तमपि प्राचीनं साहित्यं तथा च वैदिक साहित्यं, रामायणं, महाभारतं, पुराणानि, दर्शनग्रन्थाः, स्मृतिग्रन्थाः, काव्यानि, नाटकानि, गद्य-नीति-आख्यानग्रन्थाश्च संस्कृतभाषायामेव लिखिता: प्राप्यन्ते। गणितं, ज्योतिषं, काव्यशास्त्रमायुर्वेदः, अर्थशास्त्रं राजनीतिशास्त्रं छन्दःशास्त्रं ज्ञान-विज्ञानं तत्वजातमस्यामेव संस्कृतभाषायां समुपलभ्यते। अनेन संस्कृतभाषायाः विपुलं गौरवं स्वमेव सिध्यति। भारतस्य ज्ञान-विज्ञान-चिन्तनगौरवपरम्परादीनां स्रोतः संस्कृतवाङ्मये एव वर्तते नास्ति अत्र कोऽपि संशयः। संस्कृत भाषा: न केवलं उच्चारणे सर्वोत्कृष्ट अपितु मधुरा दिव्या च। इयं भाषा आचारशास्त्र शिक्षिका, जीवनोन्नतिकारिणी च अस्ति। ये कथयन्ति यत् इयम् भाषा कठिना वर्तते, ते न जानन्ति यत् स्वल्प प्रयासेनैव संस्कृतं पठितं शक्य। यदि बाल्यकालादेव भारतस्य गौरव-भूतस्य संस्कृतस्याध्ययनाध्यापनं सोत्साहं सर्वत्र यदि स्यात् एतस्योपयोगिता जनाः जानीयुः। संस्कृत भाषा: अस्माकं देशस्य सांस्कृतिक: निधि: अस्ति। संपूर्णमपि सांस्कृतिक वाङ्गमयं संस्कृतमाश्रीत्य एव अवतिष्ठते । संस्कृत्याः वाङ्मयेन रहितरस्य राष्ट्रस्य जातेश्च अध: पतनम् अनिवार्यम्। संस्कृतस्य एतादृशं महत्त्वं दृष्टैव कश्चित् कविना सत्यम् एवं उक्तम्:-
“भारतस्य प्रतिष्ठे द्वे संस्कृतं चैव संस्कृतिः”
Prambose says: Morbi augue velit, tempus mattis dignissim nec, porta sed risus. Donec eget magna eu lorem tristique pellentesque eget eu dui. Fusce lacinia tempor malesuada.
Makaroni says: Tempus mattis dignissim nec, porta sed risus. Donec eget magna eu lorem tristique pellentesque eget eu dui. Fusce lacinia tempor malesuada.
Prambanan says: Donec convallis, metus nec tempus aliquet, nunc metus adipiscing leo, a lobortis nisi dui ut odio. Nullam ultrices, eros accumsan vulputate faucibus, turpis tortor.